|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.158. अध्यायः 158
Mahabharata - Vana Parva - Chapter Topics
विप्रवेषेण पाण्डवनिकटचिरवासिना जटासुरेण भीमासंनिधाने द्रौपदीसहितान्युधिष्ठिरादीनपहृत्य पलायनम् ॥ 1 ॥ मध्येमार्गं यदृच्छासमागतेन भीमन तस्य मारणम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-158-0x(2287)(21880)
ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान्।
[पर्वतेन्द्रे द्विजैः सार्धं पार्तागमनकाङ्क्षया ॥] 3-158-1(21881)
गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च।
रहितान्मीमसेनेन कदाचित्तान्यदृच्छया।
जहार धर्मराजं वै यमौ कृष्णां च राक्षसः ॥ 3-158-2(21882)
`जनमेजय उवाच। 3-158-3x(2288)
ब्रह्मन्कथं धर्मराजं यमौ कृष्णां च राक्षसः।
जहार चित्रं भीमश्च गतो राक्षसकण्टकः।
वक्तुमर्हसि विप्राग्र्य व्यक्तमेतन्ममाऽनघ ॥ 3-158-3(21883)
वैशम्पायन उवाच।' 3-158-4x(2289)
ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः।
इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा ।
परीप्समानः पार्थानां कलापांश्च धनूंषि च ॥ 3-158-4(21884)
अन्तरं संपरिप्रेप्सुर्द्रौपद्या हरणं प्रति।
दुष्टात्मा पापबुद्धिः स नाम्ना ख्यातो जटासुरः ॥ 3-158-5(21885)
[पोषणं तस् राजेनद्र चक्रे पाण्डवनन्दनः।
बुबुधे न च तं पापं भस्मच्छन्नमिवानलम् ॥ 3-158-6(21886)
स भीमसेने निष्क्रान्ते मृगयार्थमरिंदमे।
[घटोत्कचं सानुचरं दृष्ट्वा विप्रद्रुतं दिशः ॥ 3-158-7(21887)
लोमशप्रभृतींस्तांस्तु महर्षीश्च समाहितान्।
स्नातुं विनिर्गतान्दृष्ट्वा पुष्पार्थं च तपोधनान्] ॥ 3-158-8(21888)
रूपमन्यत्समास्थाय विकृतं भैरवं महत्।
गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च।
प्रातिष्ठत सुदुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान् ॥ 3-158-9(21889)
[विक्रम्य कौशिकं खङ्गं मोक्षयित्वा ग्रहं रिपोः।]
आक्रन्दद्भीमसेन वै येन यातो महाबलः ॥ 3-158-10(21890)
तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः।
धर्मस्ते हीयते मूढ न चैनं समवेक्षसे ॥ 3-158-11(21891)
येऽन्ये क्वचिन्मनुष्येषु तिर्यग्योनिगताश्च ये।
धर्मं ते समवेक्षन्ते रक्षांसि च विशेषतः ॥ 3-158-12(21892)
धर्मस्यराक्षसा मूलं धर्मं ते विदुरुत्तमम्।
एतत्परीक्ष्यसर्वं त्वं समीपे स्थातुमर्हसि ॥ 3-158-13(21893)
देवाश्च ऋषयः सिद्धाः पितरश्चापि राक्षस।
गन्धर्वोरगरक्षांसि वयांसि पशवस्तथा ॥ 3-158-14(21894)
तिर्यग्योनिगताश्चैव अपि कीटपिपीलिकाः।
मनुष्यानुपजीवन्ति ततस्त्वमपि जीवसि ॥ 3-158-15(21895)
समृद्ध्या यस्य लोकस्य लोको युष्माकमृध्यति।
इमं च लोकं शोचन्तमनुशोचन्ति देवताः।
पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि ॥ 3-158-16(21896)
वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस।
राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् ॥ 3-158-17(21897)
न च राजाऽवमन्तव्यो रक्षसा जात्वनागसि।
अनुरप्यपचारश्च नास्त्यस्माकं नराशन ॥ 3-158-18(21898)
विघसाशान्यथाशक्त्या कुर्महे देवतादिषु।
गुरूंश्च ब्राह्मणांश्चैव प्रमाणप्रवणाः सदा ॥ 3-158-19(21899)
द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित्।
येषां चान्नानि भुञ्जीत यत्रच स्यात्प्रतिश्रयः ॥ 3-158-20(21900)
स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः।
भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि ॥ 3-158-21(21901)
एवमेव वृथाचारो वृथा वृद्धो वृथामतिः।
वृथामरणमर्हस्त्वं वृथाऽद्य नमविष्यसि ॥ 3-158-22(21902)
अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः।
प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर ॥ 3-158-23(21903)
अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि।
अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलं ॥ 3-158-24(21904)
एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम्।
विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया ॥ 3-158-25(21905)
ततो युधिष्ठिरस्तस्य भारिकः समपद्यत।
स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत् ॥ 3-158-26(21906)
अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः।
मा भैष्टं राक्षसान्मूढाद्गतिरस्य मया हृता ॥ 3-158-27(21907)
नातिदूरे महबाहुर्भविता पवनात्मजः।
अस्मिन्मुहूर्ते संप्राप्ते नभविष्यति राक्षसः ॥ 3-158-28(21908)
सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम्।
उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम् ॥ 3-158-29(21909)
राजन्किं नाम सत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम्।
यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रुं जयेत वा ॥ 3-158-30(21910)
एष वास्मान्वयं वैनं युध्यमानाः परंतप।
सूदयेम महाबाहो देशः कालो ह्ययं नृप ॥ 3-158-31(21911)
क्षत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रम।
जयन्तो हन्यमाना वा प्राप्तुमर्हाम सद्गतिम् ॥ 3-158-32(21912)
राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि।
नाहं ब्रूयां पुनर्जातु क्षत्रियोस्मीति भारत ॥ 3-158-33(21913)
भोभो राक्षस तिष्ठस्व सहदेवोस्मि पाण्डवः।
हत्वा रवा मां नयस्वैनां हतो वा स्वप्स्यसीह वै ॥ 3-158-34(21914)
तदा ब्रुवति माद्रेये भीमसेनो यदृच्छया।
प्रादृश्यत महाबाहुः सवज्र इव वासवः ॥ 3-158-35(21915)
सोऽपश्यद्धातरौ तत्र द्रौपदीं च यशस्विनीम्।
क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा ॥ 3-158-36(21916)
मार्गाच्च राक्षसं मूढं कालोपहतचेतसम्।
भ्रमन्तं तत्रतत्रैव दैवेन परिमोहितम् ॥ 3-158-37(21917)
हृतान्संदृश्य तान्भ्रातृन्द्रौपदीं च महाबलः।
क्रोधमाहारयद्भीमो राक्षसंचेदमब्रवीत् ॥ 3-158-38(21918)
विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे।
आस्था तु त्वयि मे नास्ति यतोसि न हतस्तदा ॥ 3-158-39(21919)
ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम्।
प्रियेषु रममाणं त्वां न चैवाप्रियकारिणम्।
ब्रह्मरूपेण विहितं नैव हन्यामनागसम् ॥ 3-158-40(21920)
राक्षसं जानमानोऽपि यो हन्यान्नरकं व्रजेत्।
अपक्वस्य च कालेन वधस्तव न विद्यते ॥ 3-158-41(21921)
नूनमद्यासि संपक्वो यथा ते मतिरीदृशी।
दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा।
`सोपि कालं समासाद्य तथाऽद्य नभविष्यसि' ॥ 3-158-42(21922)
बडिशोऽयंत्वया ग्रस्तः कालसूत्रेण लम्बितः।
मत्स्योऽम्भसीव स्यूतास्यः कथमद्य गमिष्यसि ॥ 3-158-43(21923)
यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते।
न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः ॥ 3-158-44(21924)
एवमुक्तस्तु भीमेन राक्षसः कालचोदितः।
भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः ॥ 3-158-45(21925)
अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः।
न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् ॥ 3-158-46(21926)
श्रुता मे राक्षसा ये ये त्वया विनिहता रणे।
तेषामद्यकरिष्यामि तवास्रेणोदकक्रियाम् ॥ 3-158-47(21927)
`एवमुक्त्वातदा भीमं राक्षसो योद्धुमाययौ।
करालवदनः क्रोधात्कालसर्प इव श्वसन्' ॥ 3-158-48(21928)
एवमुक्तस्ततो भीमः सृक्विणी परिलेलिहन्।
स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः ॥ 3-158-49(21929)
`ब्रुवन्वै तिष्ठतिष्ठेति क्रोधसंरक्तलोचनः'।
बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम् ॥ 3-158-50(21930)
मुहुर्मुहुर्व्याददानः सृक्विणी परिसंलिहन्।]
अभिदुद्राव संरब्धो बलो वज्रधरं यथा ॥ 3-158-51(21931)
भीमसेनोऽप्यवष्टब्धो नियुद्धायाभवत्स्थितः।
राक्षसोऽपि च विस्रब्धो बाहुयुद्धमकाङ्क्षत' ॥ 3-158-52(21932)
वर्तमाने तयो राजन्बाहुयुद्धे सुदारुणे।
माद्रीपुत्रावतिक्रुद्धावुभावप्यभ्यधावताम् ॥ 3-158-53(21933)
न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः।
शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् ॥ 3-158-54(21934)
आत्मना भ्रातृभिश्चैव धर्मेण सुकृतेन च।
इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् ॥ 3-158-55(21935)
इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम्।
बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ ॥ 3-158-56(21936)
तयोरासीत्संप्रहारः क्रुद्धयोर्भीमरक्षसोः।
अमृष्यमाणयोः सङ्ख्ये शक्रशम्बरयोरिव ॥ 3-158-57(21937)
तौ वीरौ समभिक्रुद्धावन्योन्यं पर्यधावताम्।
आरुज्यारुज्यतौ वृक्षानन्योन्यमभिजघ्नतुः।
जीमूताविव धर्मान्ते विनदन्तौ महाबलौ ॥ 3-158-58(21938)
बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ।
अन्योन्येनाभिसंरब्धौ परस्परवधैषिणौ ॥ 3-158-59(21939)
तद्वृक्षयुद्धमभवनमहीरुहविनाशनम्।
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ॥ 3-158-60(21940)
आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम्।
ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः ॥ 3-158-61(21941)
तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः।
पुगीकृताश्च शतशः परस्परवधेप्सया ॥ 3-158-62(21942)
ततः शिलाः समादाय मुहूर्तमिव भारत।
महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ ॥ 3-158-63(21943)
शिलाभिरुग्ररूपाभिर्बृहतीभिः परस्परम्।
वज्रैरिव महावेगैराजघ्नतुरमर्षणौ ॥ 3-158-64(21944)
अभिद्रुत्य च भूयस्तावन्योन्यबलदर्पितौ।
भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव ॥ 3-158-65(21945)
मुष्टिभिश् महाघोरैरन्योन्यमभिपेततुः।
ततः कटकटाशब्दो बभूव शुमहात्मनोः ॥ 3-158-66(21946)
ततः संहृत्यमुष्टिं तु पञ्चशीर्षमिवोरगम्।
वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम् ॥ 3-158-67(21947)
ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम्।
सुपरिभ्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत ॥ 3-158-68(21948)
तत एनं महाबाहुर्बाहुभ्याममरोपमः।
समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले ॥ 3-158-69(21949)
`ततः संपीड्य बलवद्भुजाभ्यां क्रोधमूर्च्छितः।'
तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः।
अरत्निना चाभिहत्य शिरः कायादपाहरत् ॥ 3-158-70(21950)
संदष्टौष्ठं विवृत्ताक्षं फलं वृक्षादिव च्युतम्।
जटासुरस्य तु शिरो भीमसेनबलाद्धृतम्।
पपात रुधिरादिग्धं संदष्टदशनच्छदम् ॥ 3-158-71(21951)
तं निहत्यमहेष्वासो युधिष्ठिरमुपागमत्।
स्तूयमानो द्विजाग्र्यैस्तु मरुद्भिरिव वासवः ॥ 3-158-72(21952)
इति श्रीमन्महाभारते अरण्यपर्वणि जटासुरवधपर्वणि अष्टपञ्चाशदधिकशततमोऽध्यायः ॥ 158 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-158-4 कलापान् निषङ्गान् ॥ 3-158-10 कौशिकं कोशादागतम्। ग्रहं ग्रहणम् ॥ 3-158-16 युष्माकं देवासुरादीनाम्। ऋध्यति वृद्धिं गच्छति ॥ 3-158-19 विघसाशान् देवादिशेषान्नं विघसं तस्य आशो भोजनं येषां तान् ॥ 3-158-20 प्रतिश्रयो गृहम् ॥ 3-158-22 नभविष्यसि मरिष्यति ॥ 3-158-26 गुरुकः समपद्यतेति झ. पाठः ॥ 3-158-30 सत्कृत्यं साधुकार्यम् ॥ 3-158-39 आस्था त्वन्मारणे आदरः ॥ 3-158-40 अतिथि ब्रह्मरूपं च कथं इति झ. पाठः ॥ 3-158-42 कालपक्व इदानीं त्वं यथेति थ. पाठः ॥ 3-158-43 बडिशो मत्स्यवेधनम् ॥ 3-158-47 अस्रेण लोहितेन ॥ 3-158-60 पुरा स्त्रीकाङ्क्षिणोर्यथा इति झ. पाठः ॥ 3-158-61 आविध्य भ्रामयित्वा ॥ 3-158-62 मुञ्जीकृताश्चेति झ. पाठः। तत्र मुञ्जीकृताः रज्ज्वर्थं मुञ्जवज्जर्जरीकृता इत्यर्थः ॥ 5-158-63 महाभ्रैरिवेत्यभूतोपमा ॥ 3-158-67 शिरोधरां ग्रीवाम् ॥ 3-158-68 अभ्यवर्तत अधिकोत्साह्वानभूत् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|